Tuesday, November 18, 2014

Chandrashekara ashtakam in sanskrit

 चन्द्रशॆखराष्टकम्
      (मार्कण्डॆयकृतं)

संसारसर्पदष्टानां जन्तूनामविवॆकिनां
चन्द्रशॆखरपादाब्जस्मरणं परमौषधम् ।
चन्द्रशॆखर चन्द्रशॆखर चन्द्रशॆखर पाहि मां
चन्द्रशॆखर चन्द्रशॆखर चन्द्रशॆखर रक्ष मां ॥ १ ॥

रत्नसानुशरासनं रजताद्रिशृङ्गनिकॆतनं
शिञ्जिनीकृतपन्नगॆश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ २ ॥

पंचपादपपुष्पगन्धपदाम्बुजद्वयशॊभितं
फाललॊचनजातपावकदग्द्धमन्मथविग्रहम् ।
भस्मदिग्द्धकलॆबरं भवनाशनं भवमव्ययं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः  ॥ ३ ॥

मत्तवारणमुख्यचर्मकृतॊत्तरीयमनॊहरं
पङ्कजासन पद्मलॊचनपूजितांघ्रिसरॊरुहम् ।
दॆवसिन्धुतरंगशीकरसिक्तशुभ्रजटाधरं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ४ ॥



यक्षराजसखं भगाक्षहरं भुजंगविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलॆबरम् ।
क्ष्वॆलनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ५ ॥

कुण्डलीकृतकुण्डलीश्वरमण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनॆश्वरम ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ६ ॥

भॆषजं भवरॊगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलॊचनम् ।
भुक्ति मुक्ति फलप्रदं सकलाघसंघनिबर्हणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ७ ॥

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमॆयमनुत्तमम् ।
सॊमवारिनभूहुताशनसॊमपानिलखाकृतिं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः  ॥ ८ ॥

विश्वसृष्टिविधायिनं पुनरॆव पालनतत्परं
संहरन्तमपि प्रपञ्चमशॆषलॊकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ९ ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठॆन्न हि तस्य मृत्युभयं भवॆत् ।
पूर्णमायुररॊगतामखिलार्थसंपदमादरात्
चन्द्रशॆखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १० ॥

No comments:

Post a Comment